Tuesday, November 27, 2007

परिहासिकाः

चिकित्सकः- मन्ये ,त्वम् अलर्करोगेण आक्रान्तोऽसि ।
रोगी- यद्येवं तर्हि भवान् मह्यम् एकं कर्गलं यच्छतु ।
चिकित्सकः- किं त्वं इच्छापत्रं लेखितुम् इच्छसि?
रोगी- न, अहं तु तेषां नामानि लेखितुम् इच्छमि यान् अहं दङ्क्ष्यामि।

*********

(त्रीणि मित्राणि परस्परं वार्तालापं कुर्वन्ति ईश्वरं प्रार्थयन्ते)
प्रथमं मित्रं-हे ईश्वर ! मह्यं त्वं स्वर्णपूर्णं गृहं यच्छ ।
द्वितीयं मित्रं- हे भगवन् ! त्वं मे रत्नैः पूर्णं गृहं यच्छ।
तृतीयं मित्रं- हे प्रभो ! तादृशं गृहम् उद्घातयितुम् कुञ्चिकां मह्यं देहि।

*************

अध्यापकः- (शिष्यं प्रति) रोहित ! त्वम् अति दुष्टोऽसि । श्वः स्वपित्रा सह अत्र आगन्तव्यम् ।
रोहितः- श्रीमन्तः ! यद्येवम् अस्ति तर्हि शतं रुप्यकणि भवद्भिः मह्यं देयानि।
अध्यापकः - किमर्थम् ?
रोहितः- मम पिता तु चिकित्सकोऽस्ति । शतरुप्यकाणि शुल्कं बिना नासौ कुत्रापि गच्छति ।

****************

(न्यायालये न्यायाधीशम् अपराधिनं च अन्तरा वार्तालापो भवति )
न्यायाधीशः- यदि त्वं मृषा वदिष्यति तर्हि कुत्र गमिष्यसि ?अपराधी- ननु नरकमेव गमिष्यामि । न्यायाधीशः - यदि त्वं सत्यं वदिष्यसि तदा कुत्र ?
अपराधी- कारागारम् ।

*****************

(मोहनः विनायकं पूजयति । पूजया प्रसन्नो भूत्वा विनायकः आविर्भवति)
विनायकः -वत्स ! वद किमिच्छसि?
मोहितः- मारुतिकारयानं मे स्यादिति वाञ्छामि।
विनायकः- मम वाहनं मूषको वर्तते । कथमहं तुभ्यं कारयानं दास्यामि?

****************
source: http://sanskrit.jnu.ac.in/testcorpus/tc7.txt

Thursday, November 8, 2007

कुत्र कुत्र सम्स्कृतम् ?


(click to enlarge)

सम्स्कृतभारती कुत्र कुत्र कार्यम् करॊति अमॆरिका कानडा च दॆशयॊः इति ...

रक्तवर्णॆन सूचितानि स्थानानि - "गणयुक्त कार्यस्थानानि" - यत्र कार्यकर्तृगणः अस्ति - 6 सन्ति : Boston, DC, Pittsburgh, Fremont, San Jose, Seattle

नीलवर्णेन सूचितानि स्थानानि - "कार्यस्थानानि" - यत्र कार्यम् ( भाषावर्गः) प्रचहलति , ऎकः/ऎका अस्ति आयॊजकरूपॆण - 8 स्थानानि - NC, NJ-NYC , Austin, Dallas, Toronto, Chicago, LA, San Diego


पीतवर्णेन सूचितानि "सम्पर्कस्थानानि" - यत्र कॆचन उत्सुकाः सन्ति परन्तु अधिक कार्यम् इदानीम् न प्रचलति -10 स्थानानि

Wednesday, October 31, 2007

palindrome

ततान दाम प्रमदा पदाय नॆमॆ रुचामस्वनसुन्दराक्षी ।
क्षीरादसुं न स्वमचारु मॆने यदाप दाम प्रमदा नतातः ॥

tataana daama pramadaa padaaya neme ruchaamasvanasundaraakShii |
kShiiraadasuM na svamachaaru mene yadaapa daama pramadaa nataataH ||

कॊपि/कापि अर्थं जानाति चॆत् लिखतु । अपि च PALINDROME पदस्य संस्कृतम् किम् ? अन्याः palindromes जानन्ति किम् ?

पदानि : तिष्ठति ; नवजीवन ; मध्यम

मूलम् : acharya.iitm

Thursday, October 11, 2007

शक्नोति वा ?

NY नगरे इदानीम् सम्भाषणार्थं दूरवाणी मॆळनम् प्रचलति - प्रति गुरुवासरे रात्रौ ! अद्यतन दूरवाणी मॆळने "शक्नॊति" इति पदस्य अभ्याससमयॆ एकः मां पृष्टवान् ( सम्स्कृतेन एव) - "अरुण, भवान् रिक्त-उदरॆ कति इड्डलीभॊजनानि खादितुम् शक्नॊति ? " इति । उत्तमम् उदाहरणम् इति चिन्तयित्वा अहम् उत्तरमपि दत्तवान् " प्रायः दश खादितुम् शक्नॊमि - आकारः अनुसृत्या एव निस्चयॆन वक्तुम् शक्नॊमि" इति .. सः अग्रॆ पृष्टवान् - " कथम् अरुण् - एकम् इड्ड्ळीम् खादनानन्तरम् भवान् रिक्त-उदरः नास्ति खलु ? "

-------------------------------------------------------------------------

Eventhough he said it in bits and pieces, and needed help with a word for "empty", it was a good practical joke cracked by a "beginner" student on the "chaalakaH" in SamskRutam... made my day.. ( well, nite)

Thursday, September 27, 2007

भगवद् गीतायां मम एकः प्रियश्लॊकः ।

1997 - ऐ ऐ टि मध्यॆ मम प्रथमवर्षम् । तस्मिन् वर्षे सेप्तेम्बेर् 27 दिनाङ्के तत्र एका नूतना सम्स्था आरब्धा - http://vsc.iitm.ac.in .. अग्रिम साप्ताहान्तॆ यदा गान्धीजयन्ति आसीत् अहम् प्रथमवारम् भगवद् गीताम् क्रीतवान् । तस्मिन् वर्षे एव विजयदशमि ( Oct 11) आरभ्य पठनमपि आरब्धवान् । तस्मिन् दिनॆ एव ऐ ऐ टि मध्यॆ अन्यत् किमपि अभवत् - पश्यतु -

http://acharya.iitm.ac.in/sanskrit/lessons.php ...

The first of these Lessons was put on the web on Oct.11, 1997, which was Vijayadasami Day, probably the most appropriate day to begin the lessons.

------------------------------------------------
अत्र गिता तः मम एकः प्रियश्लोकः दत्तः । किमर्थम् प्रियकरम् इत्यपि सूचयामि ।

श्लोकः

   तस्मात्त्वमुत्तिष्ठ यशो लभस्व जित्वा शत्रून्भुङ्क्ष्व राज्यं समृद्धम्‌ ।
मयैवैते निहताः पूर्वमेव निमित्तमात्रं भव सव्यसाचिन्‌ ॥ ११-३३ ॥

अर्थः
त्वम् उत्तिष्ठ । यशः लभस्व । शत्रुन् जित्वा समृद्धम् राज्यम् भुङ्क्ष्व । मया एव एते (कौरवाः ) पूर्वमॆव निहिताः । त्वम् निमित्तमात्रम् भव सव्यसाचिन् ॥

किमर्थम् मम प्रियः श्लोकः

सव्यसाचिन् इति पदस्य अर्थः - ambidextrous - इति । यावत् उत्तमम् दक्षिण हस्तॆन अस्त्रविद्या कर्तुम् शक्नॊति तावत् उत्तमम् वामहस्तॆन अपि शक्नॊति अर्ज्जुनः । तधापि सः "निमित्तमात्रम्" अस्ति । यद्यपि कॊपि अतिसमर्थः अस्ति तधापि यदि निमित्तमात्र-सङ्कल्पॆन कार्यम् करॊति तर्हि स्थितप्रज्ञः भविष्यति ...........

---------------------------------------------------------

लॆखनॆ दॊषान् सूचयन्तु । अस्मिन् विषयॆ विचाराः अपि ॥




Thursday, September 20, 2007

किम् प्रोब्लेम्?

चलतः मित्रद्वयस्य विश्वविद्यालय-गमन-समये सम्भाषणम् -

रमेशः "भवान् सिद्धः वा?" ।
मुखेशः "भोजनार्थं, निद्रार्थं च सर्वदा सिद्धः अस्मि" ।
रमेशः "तत्तु जानामि भोः! तथा न । अद्य संस्कृतकक्ष्यायाः परीक्षा । न विस्मृता भवता किल?" ।
मुखेशः "न भोः, गतसप्ताहे एव सज्जता कृता । किम् , अहं मूर्खः इति चिन्तयति भवान्?" ।
रमेशः " भवान् एव ह्यः उक्तवान् दुर्गस्य नाम दुर्गा " ।
मुखेशः " तूष्णीं भवतु । अहं सर्वं जानामि । पश्यतु एतस्याः कक्ष्यायाः अनन्तरं प्रथमस्तरं प्राप्नोमि " ।
रमेशः " कथं तत् सध्यम्? भवान् सम्यक् रुपेण स्वनाम वक्तुम् अपि न शक्नोति!"|
मुखेशः " ह ह ह....मम नाम स्नात्वाकालकः *! । मम अग्रजः बाल्ये तथैव संस्कृतेन माम् आह्वयति स्म "।
रमेशः "ऐयो..........." ।

अग्रिमदिने विश्वविद्यालये -

रमेशः " हे स्नात्वाकालक*! कीयतः अङ्कान् परीक्षायां प्राप्तवान्? अहं प्रथमस्तरं प्राप्तवान्!" ।
मुखेशः " कापि समस्या अस्ति... मम एकः अपि अङ्कः न प्राप्तः । किमर्थम्? प्रायः अध्यापकः मम परीक्षां न पश्येत्" ।
रमेशः " न, न, न...पत्रं ददातु, अहं पश्यामि " । [सः पत्रं गृहीत्वा, उच्चैः पठनं आरभते] " प्रथमप्रश्नः अस्ति यत् छात्रः किं करोति? । [पठनं स्थगयति] भोः, किम् एतत्????" ।
मुखेशः " किम्? । उत्तरं लिखितं मया तत्र! " ।
रमेशः "संस्कृतेन लेखनीयम् उत्तरम्! एषा संस्कृतलिपिः न!" । [सः पत्रं प्रदर्शयति । पत्रे उत्तरं आङ्गलभाषायाः transliteration माध्यमेन लिखितम् अस्ति । अक्षराणाम् उपरि एका रेखा लिखिता] ।
मुखेशः "सा एव देवनागरिलिपिः ! अहं दृष्टवान् काफ़ेस्पैस्भोजनालयस्य द्वारे एवम् एव लिखितम् अस्ति!" ।
रमेशः [स्वशिरताडनं कुर्वन्] "एवं किमर्थं लिखितवान्?। प्रश्नः अस्ति छात्रः कदा पठति इति । भवतः उत्तरं....मण्डे, ट्यूस्डे, वेनस्डे च छात्रः पठति " ।
मुखेशः "अहो, सत्यं भोः...सः गुरुवासरे अपि पठेत् यतः शुक्रवासरे स्कूल् अस्ति" ।
रमेशः "मस्तिष्के किमपि न चलति....अहो देव, भवतः कृते साहाय्यम् आवश्यकम् एव " । [सः पठनस्य पुनः आरम्भं करोति] । "प्रश्नः - भवतः गृहं कुत्र अस्ति?" । [पत्रं दृष्ट्वा, तस्य मुखस्य उद्घाटनम् एव । सः पत्रं प्रदर्शयति । एकं गृहं वर्णितम् अस्ति । गृहस्य समीपे बाणाकारः । बाणाकारेण सूच्यमानं गृहं । ] "एतस्य अर्थः कः?" ।
मुखेशः " मम गृहं कुत्र अस्ति इति अध्यापकः ज्ञातुम् इष्टवान्, अतः चित्रम् अलिखम् । स्पष्टं, न वा?" ।
रमेशः [पुनः स्वताडनं कृत्वा] "एतत् पत्रं स्वीकरोतु । केवलं भवान् अग्रिमजन्मनि बद्धिं लप्स्यते इति प्रार्थयामि "।

*स्नात्वाकालकः - स्नात्वापि मलिनः (ज्ञाने धर्मः उत प्रयोगे, पु. ७। एतस्यां पुस्तिकायां ईदृशाः बहवः शब्दाः उदाहरणार्थं दत्ताः ये लोकव्यवहारे पुरातनकाले उपयुज्यमानाः आसन् ।

बहवः दोषाः स्युः । यदि भवन्तः दोषान् पश्यन्ति कृपया सूचयन्तु ।

Friday, August 10, 2007

यत्र मनः भीतरहितमस्ति .....

यत्र मनः भयरहितमस्ति शिरः च उन्नतमस्ति
यत्र ज्ञानम् मुक्तम् प्रवहति
यत्र सङ्कीर्ण-प्राकारैह् सम्सारः भग्नः न अभवत्
यत्र पदानि ह्इदयगाम्भिर्यतः आगच्छति
यत्र श्रान्तरहितॊद्यमम् पूर्णतॊन्मुखमस्ति
यत्र बुधिधारायाः मार्गभ्रम्शम् निर्जन-मरुभुम्याम् न अभवत्
यत्र मनः भवता प्रकर्ष्यते विशालचिन्तनाय कर्माय च
मुक्तेह् तत्-स्वर्गार्थम् मम राष्ट्रमुधरॆत्

------------------------------------------------
धन्यवादाः - याजुषी , अविनाशः । दोषान् सूचयन्तु ॥