Thursday, September 20, 2007

किम् प्रोब्लेम्?

चलतः मित्रद्वयस्य विश्वविद्यालय-गमन-समये सम्भाषणम् -

रमेशः "भवान् सिद्धः वा?" ।
मुखेशः "भोजनार्थं, निद्रार्थं च सर्वदा सिद्धः अस्मि" ।
रमेशः "तत्तु जानामि भोः! तथा न । अद्य संस्कृतकक्ष्यायाः परीक्षा । न विस्मृता भवता किल?" ।
मुखेशः "न भोः, गतसप्ताहे एव सज्जता कृता । किम् , अहं मूर्खः इति चिन्तयति भवान्?" ।
रमेशः " भवान् एव ह्यः उक्तवान् दुर्गस्य नाम दुर्गा " ।
मुखेशः " तूष्णीं भवतु । अहं सर्वं जानामि । पश्यतु एतस्याः कक्ष्यायाः अनन्तरं प्रथमस्तरं प्राप्नोमि " ।
रमेशः " कथं तत् सध्यम्? भवान् सम्यक् रुपेण स्वनाम वक्तुम् अपि न शक्नोति!"|
मुखेशः " ह ह ह....मम नाम स्नात्वाकालकः *! । मम अग्रजः बाल्ये तथैव संस्कृतेन माम् आह्वयति स्म "।
रमेशः "ऐयो..........." ।

अग्रिमदिने विश्वविद्यालये -

रमेशः " हे स्नात्वाकालक*! कीयतः अङ्कान् परीक्षायां प्राप्तवान्? अहं प्रथमस्तरं प्राप्तवान्!" ।
मुखेशः " कापि समस्या अस्ति... मम एकः अपि अङ्कः न प्राप्तः । किमर्थम्? प्रायः अध्यापकः मम परीक्षां न पश्येत्" ।
रमेशः " न, न, न...पत्रं ददातु, अहं पश्यामि " । [सः पत्रं गृहीत्वा, उच्चैः पठनं आरभते] " प्रथमप्रश्नः अस्ति यत् छात्रः किं करोति? । [पठनं स्थगयति] भोः, किम् एतत्????" ।
मुखेशः " किम्? । उत्तरं लिखितं मया तत्र! " ।
रमेशः "संस्कृतेन लेखनीयम् उत्तरम्! एषा संस्कृतलिपिः न!" । [सः पत्रं प्रदर्शयति । पत्रे उत्तरं आङ्गलभाषायाः transliteration माध्यमेन लिखितम् अस्ति । अक्षराणाम् उपरि एका रेखा लिखिता] ।
मुखेशः "सा एव देवनागरिलिपिः ! अहं दृष्टवान् काफ़ेस्पैस्भोजनालयस्य द्वारे एवम् एव लिखितम् अस्ति!" ।
रमेशः [स्वशिरताडनं कुर्वन्] "एवं किमर्थं लिखितवान्?। प्रश्नः अस्ति छात्रः कदा पठति इति । भवतः उत्तरं....मण्डे, ट्यूस्डे, वेनस्डे च छात्रः पठति " ।
मुखेशः "अहो, सत्यं भोः...सः गुरुवासरे अपि पठेत् यतः शुक्रवासरे स्कूल् अस्ति" ।
रमेशः "मस्तिष्के किमपि न चलति....अहो देव, भवतः कृते साहाय्यम् आवश्यकम् एव " । [सः पठनस्य पुनः आरम्भं करोति] । "प्रश्नः - भवतः गृहं कुत्र अस्ति?" । [पत्रं दृष्ट्वा, तस्य मुखस्य उद्घाटनम् एव । सः पत्रं प्रदर्शयति । एकं गृहं वर्णितम् अस्ति । गृहस्य समीपे बाणाकारः । बाणाकारेण सूच्यमानं गृहं । ] "एतस्य अर्थः कः?" ।
मुखेशः " मम गृहं कुत्र अस्ति इति अध्यापकः ज्ञातुम् इष्टवान्, अतः चित्रम् अलिखम् । स्पष्टं, न वा?" ।
रमेशः [पुनः स्वताडनं कृत्वा] "एतत् पत्रं स्वीकरोतु । केवलं भवान् अग्रिमजन्मनि बद्धिं लप्स्यते इति प्रार्थयामि "।

*स्नात्वाकालकः - स्नात्वापि मलिनः (ज्ञाने धर्मः उत प्रयोगे, पु. ७। एतस्यां पुस्तिकायां ईदृशाः बहवः शब्दाः उदाहरणार्थं दत्ताः ये लोकव्यवहारे पुरातनकाले उपयुज्यमानाः आसन् ।

बहवः दोषाः स्युः । यदि भवन्तः दोषान् पश्यन्ति कृपया सूचयन्तु ।

1 comment:

Yaajushi said...

वस्तुतः यदा अहं पञ्चम्यां कक्ष्यायाम् आसं तदा 'वाटिका' इत्यस्मिन् विषये निबन्धलेखनावसरे (essay writing) अहं वाटिकायाः चित्रं लिखितवती आसम्। (तदपि वार्षिकपरीक्षायाम्!!)
मम शिक्षकः मम मातरम् आहूय दर्शितवान् 'पश्यतु मान्ये! भवत्याः पुत्र्या किं कृतम्' इति।