Friday, February 2, 2007

बीर्बलस्य किछडी

अत्र महाशैत्यमस्ति खलु। अतः प्रसक्ता इयं कथा । सर्वे प्रायः एतां कथां श्रुतवन्तः स्युः । परन्तु संस्कृतेन न श्रुतवन्तः इति भावयामि ।

अक्बरमहाराजः शैत्यकाले एकदा प्रभाते उत्थाय मन्त्रिभिः साकं विहारार्थं गतवान् । तत्र मार्गे एकं सरोवरमासीत् । तस्य सरोवरस्य शीतले जले एव जनाः स्नानादिकं कुर्वन्तः आसन् । तदा महाराजः जलं कियच्छीतलं स्यात् इति परीक्षितुं हस्तं सरोवरजले स्थापयति । जलं तु अत्यधिकशीतलमेव आसीत् । तथापि तत्र स्नानं कुर्वतः जनान् वीक्ष्य राज्ञः मनसि विचारमागतं कथं वा एतादृशं शैत्यं सोढुं शक्नुवन्ति इति । सः घोषितवान् च "यदि कोऽपि अस्मिन् शीतले सरोवरजले रात्रिपर्यन्तं तिष्ठति तस्मै अहं शतसुवर्णमुद्राणि दास्यामि" इति ।

कतिचन दिनानन्तरम् एकः निर्धनः ब्राह्मणः अक्बरमहाराजस्य सभाम् आगतवान् । सोऽपि राजानं प्रणम्य अब्रवीत् "महाराज ! मया श्रुतं यत् भवान् घोषितवान् सारोवरजले आरात्रिः यः तिष्ठति तस्मै शतसुवर्णमुद्राणि दास्यति इति । तदर्थम् आगतोऽस्मि । अहं रात्रिपर्यन्तं सरोवरजले स्थातुं सिद्धः " इति । राजा तद्वचनं श्रुत्वा "अस्तु ! अद्य रात्रिमेव भवान् सरोवरे यापयतु । श्वः प्रभाते पुनरागत्य घोषितं पारितोषकं स्वीकरोतु । परन्तु भवान् सरोवरे एव भवति इति परीक्षितुं तत्र सैनिक एकः भविष्यति " इति । तदङ्गीकृत्य ब्राह्मणः ततः निर्गच्छति ।

परेद्युः पुनरागत्य ब्राह्मणः राजानं नमस्कृत्य वदति " यथा महाराजेन आज्ञापितः तथैव कृतः" इति । राजा तं सैनिकं पृच्छति "किं सत्यमेतत् ? एषः रात्रिपर्यन्तं सरोवरे एव आसीत् वा?" इति । तदा सैनिकः "सत्यं महाराज! एषः तत्रैव आसीत्" इति उत्तरं ददाति । "भवान् तु रात्रौ कुत्रापि न गतवान् खलु" इति सैनिकं पृच्छति एकः मन्त्री । तदा सैनिकः "न तु । अहं तु आरात्रिः सरोवरतीरे एव आसम् " इति वदति । अन्येकः वदति "ब्राह्मणवर्य! कथं वा भवान् आरात्रिः सरोवरे स्थातुं शक्तवान् ?" । ब्राह्मणः विन्म्रतया वदति "मनोनिग्रहेण । दूरे एकः दीपः आसीत् । तद्दीपम् एव पश्यन् तस्मिन्नेव मनः केन्द्रीकृत्य जपमकरवम् " इति । तदा सः मन्त्री वदति " अहो ! एतत्तु नियमोल्लङ्घनमस्ति । तस्य दीपस्य तापः तु तत्रासीत् खलु । अत एव भवान् रात्रिपर्यन्तं सरोवरे स्थातुं शक्तवान् । अतः भवान् पुरस्कारं नार्हति। " राजा अपि तत्कारणात् ब्राह्मणं रिक्तहस्तम् एव प्रेषयति । एतेन प्रसङ्गेन असन्तृप्तः बीर्बलः राज्ञः मनः परिवर्तयितुं निश्चयति ।

एकदा बीर्बलः सपरिवारं राजानं भोजनार्थं स्वगृहमाह्वयति । राजा सपरिवारः आगच्छति । सर्वे वार्तालापं कुर्वन्तः कञ्चित् समयं यापयन्ति । बुभुक्षितास्ते भोजनस्य प्रतीक्षां कुर्वन्ति । भोजनसमयः भवति चेदपि आहारस्य विषये बीर्बलः किमपि न सूचयति । कश्चित् समयानन्तरं महाराजः एव बीर्बलं पृच्छति । "बीर्बल । भोजनं सिद्धं किम् ?" इति । बीर्बलः "क्षम्यतां महाराज । किछडीखादनं पचत् अस्ति । यदा सिद्धः भवति तदा भोजनं कुर्मः" इति वदति । अर्धघण्टानन्तरमपि भोजनम् अप्राप्तः राजा बीर्बलं पुनर्पृच्छति भोजनविषये । बीर्बलः पुनर्वदति यत् किछडीखादनम् इदानीम् अपि न सिद्धम् इति । एतेन कुपितः राजा स्वयमेव महानसं प्रति गच्छति । तत्र एकस्मिन् कोने अग्निः प्रज्वालितः भवति । तस्योपरि किमपि पात्रमदृष्ट्वा राजा वदति प्रायः इदानीं सिद्धमस्ति खादनम् इति । तदा बीर्बलः तं सूचयति पात्रं तु महानसस्य अन्यस्मिन् कोने अस्ति इति । तत्र अग्निः ज्वालितः न भवति एव । राजा वदति "किमेतत् ? तत्र अग्निः न प्रज्वालितः" इति । बीर्बलः वदति "अस्य अग्नेर्तापेन एव तत्र स्थिते पात्रे किछडीखादनं पचत् अस्ति " इति । राजा कोपेन "कथं वा तावद्दूरे स्थिते पात्रे पचेत् । अस्याग्नेर्तापस्तु तत्र न प्राप्यते एव" इति वदति । बीर्बलः विनम्रतया वदति "यदि दूरे स्थितस्य दीपस्य तापः सरोवरे स्थितं ब्राह्मणं प्राप्यति तर्हि अत्रापि किछडीखादनं पचेत्" इति । स्वप्रमादं ज्ञातवान् राजा चिन्तयन् ततः निर्गच्छति । क्षणार्धे एव बीर्बलः आगत्य भोजनं सिद्धम् इति सूचयति ।

दिनाभ्यन्तरे राजा तं ब्राह्मणं आनाय्य तं शतसुवर्णमुद्राणि दत्वा सत्करोति ।

3 comments:

Naresh said...

अविनाश,
सम्यक् लिखितं भवता। भाषाप्रयोगः कठिनः नास्ति। एतादृशं लिखामः चेत् newsletter सुष्टु भवेत्।

नरेशः

Yaajushi said...
This comment has been removed by the author.
Yaajushi said...

किछडी इति न संस्कृतशब्दः।
तदर्थे संस्कृते कृशरा इति शब्दः अस्ति।
अपि च बीर्बलः इति स्थाने वीरबलः इति अहं अन्यपुस्तकेषु पठितवती।
भवतः लेखस्य अनादरं अकृत्वा एताः सूचनाः कर्तुम् इच्छामि। औद्धत्यं क्षम्यताम्।
इतोऽपि अग्रिमायाः कथायाः प्रतीक्षायाम् अस्मि।